रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदांकितं चंदनम् ।
जातीचंपकविल्बपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृद्यताम्। ।
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः।
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधानम् । ।
(शिवमानसपूजा के ये दो श्लोक १५/११/०३ एवं १५/११/०४ को विद्यालय दिवस के अवसर पर मंगलाचरण के रूप में प्रस्तुत किए गए थे।